________________
केवलज्ञानखरूपेण विश्वव्यापकत्वात् , एवंविध आत्मा, पुण्यपापाभ्यां न युज्यते, इति सुस्थम् । इति || षष्ठो गणधरः ॥६॥ | अथ देवविषयसंदेह-संयुतं मौर्यपुत्रनामानम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि ?॥१॥3 यतः-“को जानाति मायोपमान्गीर्वाणानिंद्रयमवरुणकुबेरादीन्” इति पदैर्देवनिषेधः प्रतीयते, “स एष यज्ञायुधी यजमानोऽञ्जसा खर्लोकं गच्छति” इति पदैस्तु देवसत्ता प्रतीयते, इति तव संदेहः, परमविचारितमेतत् , यत एते त्वया मया च प्रत्यक्षमेव दृश्यंते देवाः, यत्तु वेदे मायोपमानित्युक्तं तद्देवानामपि अनित्यत्वसूचकम् । इति सप्तमो गणधरः ॥७॥ अथ नारकसंदेहात् , संदिग्धमकंपितं विबुधमुख्यम् । ऊचे विभुर्यथास्थं वेदार्थ किं न भावयसि ? | ॥ १॥ यस्मात् “नह वै प्रेत्य नरके नारकाः संति” इत्यादिपदैर्नारकाभावः प्रतीयते, “नारको वै| एष जायते यः शूद्रान्नमश्नाति" इत्यादिपदैस्तु नारकसत्ता प्रतीयते, इति तव संदेहः, परं 'नह वै|8| प्रेत्य नरके नारकाः संतीति' कोऽर्थः ? प्रेत्य परलोके केचिन्नारका मेादिवत् शाश्वता न संति, किंतु