________________
कल्पसूत्र
॥१८५॥
पदानि दृश्यंते, इति तव संदेहः, परं नाऽयं सुंदरो विचारो यस्मात् 'पुरुषो वै पुरुषत्वमश्नुते' इत्यादीनि षष्ठः
यानि पदानि तानि मनुष्योऽपि कश्चिन्मार्दवादिगुणोपेतो मनुष्यायुष्कर्म बद्धा पुनरपि मनुष्यो भवति FIm र इत्यर्थनिरूपकानि, न तु मनुष्यो मनुष्य एव भवतीति निश्चायकानि, तथा-कथं मनुष्यः पशुर्भवति?
न हि शालिबीजागोधूमांकुरः संभवतीति या तव चित्ते युक्तिः प्रतिभाति साऽपि न समीचीना, यतो गोमयादिभ्यो वृश्चिकाद्युत्पत्तिदर्शनात्कार्यवैसदृश्यमपि संभवत्येव । इति पंचमो गणधरः॥ ५॥ अथ बंधमोक्षविषये, संदिग्धं मंडिताभिधं विबुधम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि ? ॥ १॥ यतः-“स एष विगुणो विभुर्न बध्यते संसरति वा मुच्यते मोचयति वा” त्वं तावत् एतेषां | पदानामर्थमेवं करोषि, यत् स एष अधिकृतो जीवः, कथंभूतो ? विगुणः सत्वादिगुणरहितो विभुः सर्वव्यापको न बद्ध्यते पुण्यपापाभ्यां न युज्यते, नकारस्य सर्वत्र योजनात् न संसरति, न संसारे ॥१८५॥ परिभ्रमति, न मुच्यते कर्मणा बंधाऽभावात् , नाप्यऽन्यं मोचयति अकर्तृत्वात्, परं नाऽयमर्थः । समर्थः, किंतु स एष आत्मा, किं विशिष्टो ? विगुणो विगतछाद्मस्थिकगुणः, पुनः कीदृशो ? विभुः