________________
एतत्, यस्मात् विज्ञानघनेत्यादिभिरपि पदैः अस्मदुक्तार्थप्रकारेण आत्मसत्ता प्रकटैव, इति तृतीयो है द गणधरः॥३॥ | पंचसु भूतेषु तथा, संदिग्धं व्यक्तसंज्ञकं विबुधम् ॥ ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि ? ॥१॥"येन खप्नोपमं वै सकलं इत्येष ब्रह्मविधिरंजसा विज्ञेय इति" अस्याऽर्थः- वै निश्चितं सकलं एतत्पृथिव्यादिकं स्वप्नोपमं असत्, अनेन वेदवचसा तावद्भूतानामभावः प्रतीयते, “पृथ्वी देवता, आपो देवता' इत्यादिभिस्तु भूतसत्ता प्रतीयते, इति संदेहः, परमविचारितमेतत् , यस्मात् स्वप्नोपमं वै सकलं इत्यादीनि पदानि अध्यात्मचिंतायां कनककामिन्यादिसंयोगस्य अनित्यत्वसूचकानि, & न तु भूतनिषेधपराणि, इति चतुर्थो गणधरः ॥ ४॥
यो यादृशः स तादृश, इति संदिग्धं सुधर्मनामानम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि? ॥ १ ॥ यतः-"पुरुषो वै पुरुषत्वमश्नुते पशवः पशुत्वं" इत्यादीनि भवांतरसादृश्यप्रतिपादकानि, तथा-"शृगालो वै एष जायते यः सपुरीषो दह्यते” इत्यादीनि भवांतरे वैसदृश्यप्रतिपादकानि वेद-18