________________
षष्ठः
क्षण:
॥६॥
करुपमूत्र.
1 अमूर्तस्याऽपि ज्ञानस्य मद्यादिना उपघातो ब्राहयाद्यौषधेन च अनुग्रहो दृष्ट एव, किञ्च-कर्म विना मबोधिएकः सुखी अन्यो दुःखी, एकः प्रभुरन्यः किंकर इत्यादि प्रत्यक्षं जगद्वैचित्र्यं कथं नाम संभवतीति
श्रुत्वा गतसंशयः प्रबजितः । इति द्वितीयो गणधरः॥२॥ ॥१८॥
PI अथ वायुभूतिरपि तौ प्रबजितौ श्रुत्वा यस्य इंद्रभूत्यग्निभूती शिष्यौ जातौ स ममाऽपि पूज्य एव,
तद्गच्छामि अहमपि संशयं पृच्छामि, इति सोऽप्यागतः, एवं सर्वेऽप्यागताः, भगवताऽपि सर्वेऽपि । प्रतिबोधिताः, तत्क्रमश्चाऽयम् ॥__ तज्जीवतच्छरीरे, संदिग्धं वायुभूतिनामानम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि ? ॥१॥ यतः-'विज्ञानघन एवैतेभ्यो भूतेभ्यः' इत्यादिपदैर्भूतेभ्योजीवः पृथक् नास्तीति प्रतीयते, तथा-"सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो यं पश्यंति धीरा यतयः संयतात्मानः” इत्यादि अस्यार्थः,- एष ज्योतिर्मयः शुद्ध आत्मा सत्येन तपसा ब्रह्मचर्येण लभ्यो ज्ञेय इत्यर्थः, एभिस्तु वेदपदैर्भूतेभ्यः पृथक् आत्मा प्रतीयते, ततस्तव संदेहः, यदुत यच्छरीरं स एवात्मा अन्यो वेति, परं अयुक्तं
॥१८४॥