________________
RASHISHUSHUSHUSHUSHA RUSOSASTO
सचाऽयम्-“पुरुष एवेदं ग्निं सर्वं यद्भूतं यच्च भाव्यं” इत्यादि-तत्र निं' इति वाक्यालंकारे, यत् भूतं है अतीतकाले, यच्च भाव्यं भाविकाले, तत्सर्वं इदं पुरुष एव आत्मैव, एवकारः कर्मेश्वरादिनिषेधार्थः,
अनेन च वचनेन यन्नरामरतिर्यपर्वतपृथ्व्यादिकं वस्तु दृश्यते तत्सर्वं आत्मैव, ततः कर्मनिषेधः स्फुट एव, किं च-अमूर्तस्य आत्मनो मूर्तेन कर्मणा अनुग्रह उपघातश्च कथं भवति?यथा आकाशस्य चंद-12 नादिना मंडनं खङ्गादिना खंडनं च न संभवति, तस्मात्कर्म नास्ति इति तव चेतसि वर्त्तते, परं हे-13 अग्निभूते ! नायमर्थः समर्थः, यत इमानि पदानि पुरुषस्तुतिपराणि, यथा-त्रिविधानि वेदपदानि, कानिचिद्विधिप्रतिपादकानि, यथा “वर्गकामोऽग्निहोत्रं जुहुयादित्यादीनि,” कानिचिदनुवादपराणि, यथा “द्वादशमासाःसंवत्सर” इत्यादीनि,कानिचित्स्तुतिपराणि,यथा “इदं पुरुष एवेत्यादीनि,” ततोऽ- नेन पुरुषस्य महिमा प्रतीयते, न तु कर्माद्यभावः, यथा-"जले विष्णुः स्थले विष्णु-विष्णुः पर्वतमस्तके। सर्वभूतमयो विष्णु-स्तस्माद्विष्णुमयं जगत् ॥१॥” अनेन वाक्येन विष्णोर्महिमा प्रतीयते, न तु अन्य-31 वस्तूनां अभावः । किं च-अमूर्तस्यात्मनो मूर्तेन कर्मणा कथं अनुग्रहोपघातौ ? तदपि अयुक्तं, यत्