________________
कल्पसूत्र
सुबोधि०
॥१८३॥
गरूपा संज्ञा अवतिष्ठते, वर्तमानोपयोगेन तस्या नाशितत्वादिति । अपरं च " स वै अयं आत्मा ज्ञानमयः" इत्यादि - तथा - " द द द" कोऽर्थः ? दमो दानं दया इति दकारत्रयं यो वेत्ति स जीवः । किंच- विद्यमानभोक्तृकं इदं शरीरं, भोग्यत्वात्, ओदनादिवत्, इत्याद्यनुमानेनाऽपि, तथा - " क्षीरे घृतं तिले तैलं, काष्ठेऽग्निः सौरभं सुमे। चंद्रकांते सुधा यद्व- तथात्मांगगतः पृथक् ॥ १ ॥ एवं च प्रभुवचनैः छिन्नसंदेहः श्रीइंद्रभूतिः पंचशतपरिवारः प्रव्रजितः । तत्क्षणाच्च " उप्पज्जेइ वा (१) विगमेइ वा (२) धुवेइ वा (३)” इति प्रभुवदनात्रिपदीं प्राप्य द्वादशांगीं रचितवान्, इति प्रथमो गणधरः ॥ १ ॥ तं च प्रव्रजितं श्रुत्वा दद्ध्यौ तद्वांधवोऽपरः । अपि जातु द्रवेदद्रि - हिमानी प्रज्वलेदपि ॥ १ ॥ वह्निः शीतः स्थिरो वायुः, संभवेन्नतु बांधवः । हारयेदिति पप्रच्छ, लोकानश्रद्दधद्भृशम् ॥ २ ॥ ततश्च निश्चये ज्ञाते, चिंतयामास चेतसि । गत्वा जित्वा च तं धूर्त्तं, वालयामि सहोदरम् ॥ ३ ॥ सोऽप्येवमागतः शीघ्रं, प्रभुणाऽऽभाषितस्तथा । संदेहं तस्य चित्तस्थं, व्यक्तीकृत्याऽवदद्विभुः ॥ ४ ॥ हे गौतमाग्निभूते ! कः, संदेहस्तव कर्मणः ? । कथं वा वेदतत्त्वार्थं, विभावयसि ? न स्फुटम् ॥ ५ ॥
षष्ठः
क्षणः
॥ ६॥
॥१८३॥