SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ SASSASSAX*XASSISESTAX त्वं तावत् एतेषां पदानां अर्थमेवं करोषि, यत् विज्ञानघनो गमनागमनादिचेष्टावान् आत्मा एव एतेभ्यो भूतेभ्यः पृथिव्यप्तेजोवाय्वाकाशेभ्यः समुत्थाय प्रकटीभूय मयांगेभ्यो मदशक्तिरिव, तत-15 स्तानि भूतान्येव अनुविनश्यति जीवः, तत्रैव विलयं याति, जले बुबुद इव, ततो भूतातिरिक्तस्य है आत्मनोऽभावात् न प्रेत्यसंज्ञाऽस्ति, मृत्वा पुनर्जन्म नास्तीति । परमयुक्तोऽयमर्थः, शृणु तावदेतेषामर्थ, विज्ञानघन इति कोऽर्थः ? विज्ञानघनो ज्ञानदर्शनोपयोगात्मकं विज्ञानं, तन्मयत्वादात्माऽपि । विज्ञानघनः, प्रतिप्रदेशमनंतज्ञानपर्यायात्मकत्वात् , स च विज्ञानघन उपयोगात्मक आत्मा कथं-15 चितेभ्यस्तद्विकारेभ्यो वा घटादिभ्यः समुत्तिष्ठते उत्पद्यते इत्यर्थः, घटादिज्ञानपरिणतो हि जीवो 8 घटादिभ्य एव हेतुभूतेभ्यो भवति, घटादिज्ञानपरिणामस्य घटादिवस्तुसापेक्षत्वात् , एवं च एतेभ्यो है भूतेभ्यो घटादिवस्तुभ्यस्तत्तदुपयोगतया जीवः समुत्थाय समुत्पद्य तान्येव अनुविनश्यति, कोऽर्थः ? तस्मिन् घटादौ वस्तुनि नष्टे व्यवहिते वा जीवोऽपि तदुपयोगरूपतया नश्यति, अन्योपयोगरूपतया , उत्पद्यते, सामान्यरूपतया वा अवतिष्ठते, ततश्च न प्रेत्यसंज्ञाऽस्ति, कोऽर्थः ? न प्राक्तनी घटायुपयो
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy