________________
कल्पसूत्रसुबोधि० ॥१८२॥
SAASAASASARA*
एकेनाऽविजितेनाऽपि, मानहानिस्तु का मम ? । जगजैत्रस्य किं नाम, करिष्यामि च सांप्रतम् ॥५॥ अविचारितकारित्वं, अहो ! मे मंददुर्द्धियः । जगदीशावतारं यत् , जेतुमेनं समागतः॥६॥ अस्याग्रेऽहं कथं वक्ष्ये, पार्श्वे यास्यामि वा कथम्? । संकटे पतितोऽस्मीति, शिवो रक्षतु मे यशः!॥७॥3 कथंचिदपि भाग्येन, चद्भवेदत्र मे जयः । तदा पंडितमूर्धन्यो, भवामि भुवनत्रये! ॥ ८॥ ६ इत्यादि चिंतयन्नेष, सुधामधुरया गिरा । आभाषितो जिनेन्द्रेण, नामगोत्रोक्तिपूर्वकम् ॥९॥ है हे गौतमेंद्रभूते ! त्वं, सुखेनागतवानसि ? । इत्युक्तेऽचिंतयद्वेत्ति, नामाऽपि किमसौ मम ? ॥ १०॥
जगत्रितयविख्यातं, को वा नाम न वेत्ति ? माम् । जनस्याबालगोपालं, प्रच्छन्नः किं दिवाकरः? ॥११ प्रकाशयति गुप्तं चे-संदेहं मे मनःस्थितम् । तदा जानामि सर्वज्ञ-मन्यथा तु न किंचन ॥ १२ ॥ चिंतयंतमिति प्रोचे, प्रभुः को जीवसंशयः ? । विभावयसि नो वेद-पदार्थ शृणु तान्यथ ॥ १३ ॥ 15 समुद्रो मथ्यमानः किं ? गंगापूरोऽथवा किमु ? । आदिब्रह्मध्वनिः किं ? वा, वीरवेदध्वनिर्बभौ ॥१४॥ वेदपदानि च “विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवाऽनुविनश्यति, न प्रेत्यसंज्ञाऽस्तीति"
RASPOSANROSESSEX
॥१८॥