________________
CASAUSASHXURSUS 48***
लक्षणे मम दक्षत्वं, साहित्ये संहिता मतिः । तर्के कर्कशताऽत्यर्थ, क शास्त्रे नास्ति मे श्रमः ?॥५॥ अभेद्यं किमु वज्रस्य, किमसायं महात्मनाम् । क्षुधितस्य न किं खाद्यं, किं न वाच्यं खलस्य च ॥६॥ तथा ममाऽपि त्रैलोक्य-जित्वरस्य महौजसः । अजेयं किमिवास्तीह, तद्गच्छामि जयाम्यमुम् ॥७॥ इत्यादि चिंतयन्प्रभु-मवेक्ष्य सोपानसंस्थितो दयौ !। किं ब्रह्मा किं विष्णुः,सदाशिवः शंकरः किंवा?॥१॥
चंद्रः किं ? स न यत् कलंककलितः सूर्योऽपि नो तीव्ररुक्,
___ मेरुः किं ? न स यन्नितांतकठिनो विष्णुर्न यत्सोऽसितः। ब्रह्मा किं ? न जरातुरः स च जराभीरुन यत्सोऽतनु
तिं दोषविवर्जिताखिलगुणाकीर्णान्तिमस्तीर्थकृत् ॥ २॥ हेमसिंहासनासीनं, सुरराजनिषेवितम् ॥ दृष्ट्वा वीरं जगत्पूज्यं, चिंतयामास चेतसि ॥ ३॥ कथं मया महत्वं हा !, रक्षणीयं पुरार्जितम् ॥ प्रासाद कीलिकाहेतो-भक्तुं को नाम वांछति ? ॥४॥