SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ पीलयतस्तिलः कश्चि-दलतश्च यथा कणः । सूडयतस्तृणं किंचि-दगस्तेः पिवतः सरः ॥ १२ ॥ मईयतस्तुषः कोऽपि, तद्वदेष ममाऽभवत् । तथाऽपि सासहि नहि, मुधा सर्वज्ञवादिनम् ॥ १३॥ एकस्मिन्नजिते ह्यऽस्मिन् , सर्वमप्यजितं भवेत् । एकदा हि सती लुप्त-शीला स्यादसती सदा ॥१॥ls चित्रं चैवं त्रिजगति, सहस्रशो निर्जिते मया वादैः क्षिप्रचटीस्थाल्यामिव,कंकटुकोऽसौ स्थितो वादी॥१५॥ अस्मिन्नजिते सर्व, जगज्जयोद्भूतमपि यशो नश्येत्।अल्पमपि शरीरस्थं, शल्यं प्राणान्वियोजयति ॥१६॥ यतः-छिद्रे स्वल्पेऽपि पोतः किं, पाथोधौ न निमज्जति? । एकस्मिन्निष्टके कृष्टे, दुर्गः सर्वोऽपि पात्यते ॥१७॥ RI इत्यादि विचिंत्य विरचितद्वादशतिलकः वर्णयज्ञोपवीतविभूषितः स्फारपीतांबराडंबरः कैश्चित्पुस्त कपाणिभिः कैश्चित्कमंडलुपाणिभिः कैश्चिद्दर्भपाणिभिः “सरखतीकंठाभरण, वादिविजय लक्ष्मीशरण, वादिमदगंजन, वादिमुखभंजन, वादिगजसीह, वादीश्वरलीह, वादिसिंह अष्टापद, वादिविजय-15 विशद, वादिवृंदभूमिपाल, वादिशिरकाल, वादिकदलीकृपाण, वादितमभाण, वादिगोधूमघरट्ट, मर्दितवादिमरट्ट, वादिघटमुद्गर, वादिघूकभास्कर, वादिसमुद्रागस्ति, वादितर उन्मूलनहस्ति, SOURCESCUSSC कल्प.३१
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy