SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ च विहाय तत्समीपं गच्छंति ! ! "अहो ! सुराः कथं भ्रांताः, तीथांभ इव वायसाः । कमलाकरव काः, मक्षिकाश्चंदनं यथा ॥ १ ॥ करभा इव सद्वृक्षान्, क्षीरान्नं शुकरा इव । अर्कस्यालोकवत् घूका - स्त्यक्त्वा यागं प्रयांति यत् ! ॥ २ ॥ " अथवा यादृशोऽयं सर्वज्ञस्तादृशा एवैते सुराः ! अनुरूप एव संयोगः ! यतः- “पश्यानुरूपमिंदि-न्दिरेण मार्कदेशेखरो मुखरः । अपि च पिचुमंदमुकुले, मौर्कुलिकुलमाकुलं मिलति ॥ १ ॥” तथाऽपि नाऽहमेतस्य सर्वज्ञाटोपं सहे ! यतः - " व्योम्नि सूर्यद्वयं किं स्यात् ?, गुहायां केसरिद्वयम् । प्रत्यौकारे च खड्गौ द्वौ किं सर्वज्ञावहं सच ? ॥१॥" ततो भगवंतं वंदित्वा | प्रतिनिवर्तमानान् सोपहासं जनान्पप्रच्छ, भो भोः ! दृष्टः स सर्वज्ञः ? कीदृगुरूपः ? किंखरूपः ? इति, | जनैस्तु - "यदि त्रिलोकी गणनापरा स्या- तस्याः समाप्तिर्यदि नायुषः स्यात् । पारेपरार्द्धं गणितं यदि स्या - गणेयनिःशेषगुणोऽपि स स्यात् ॥ १ ॥ इत्याद्युक्ते सति स दद्ध्यौ ! ॥ नूनमेष महाधूर्त्तो, मायायाः कुलमंदिरम् । कथं लोकः समस्तोऽपि विभ्रमे पातितोऽमुना ॥ २ ॥ १ इन्दिन्दिरेण भ्रमरेण । २ आम्रशेखरः । ३ निंबवृक्षे । ४ वायसकुलम् । ५ कोषे ।
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy