SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र 0% हसद्भावेऽपि सर्वज्ञत्वाभिमानक्षतिभयात्परस्परं न पृच्छंति, एवं एते तत्परिवारभूताश्च चतुश्चत्वारिंशच्छतानि (४४०० ) द्विजाः, अन्येऽपि उपाध्याय - शंकर, ईश्वर, शिवजी । जानी - गंगाधर, महीधर, भूधर लक्ष्मीधर, । पिंड्या - विष्णु, मुकुंद, गोविंद, पुरुषोत्तम, नारायण । दुवे- श्रीपति, उमापति, विद्यापति, गणपति, जयदेव । व्यास - महादेव, शिवदेव, गंगापति, गौरीपति । त्रिवाडी - श्रीकंठ, नीलकंठ, हरिहर, रामजी । राउल - मधुसूदन, नरसिंह, कमलाकर । जोसी-पूंनो, रामजी, शिवराम, इत्यादयो मिलिताः संति ॥ अत्रांतरे च भगवन्नमस्यार्थं आगच्छतः सुरासुरान्विलोक्य तेऽचिंतयन्, अहो ! यज्ञस्य महिमा ! | यदेते सुराः साक्षात्समागताः ! । अथ तान् यज्ञमंडपं विहाय प्रभुपार्श्व च गच्छतो विज्ञाय द्विजाः विषेदुः ! ततोऽमी सर्वज्ञं वंदितुं यांतीति जनश्रुत्या श्रुत्वा इंद्रभूतिः सामर्षश्चिंतयामासिवान्, अहो ! मयि सर्वज्ञे सत्यपि अपरोऽपि स्वं सर्वज्ञं ख्यापयति ! दुःश्रवं एतत्कर्णकटु ! कथं नाम श्रूयते ! किंच | कदाचित्कोऽपि मूर्खः केनचिद्धूर्तेन वच्यते ! अनेन तु सुरा अपि वंचिताः ! यदेवं यज्ञमंडपं मां सर्वज्ञं षष्ठः क्षणः ॥ ६॥ ॥ १७९॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy