________________
अकारप्रश्लेषात् सर्वअजीवानां धर्मास्तिकायादीनामपि सर्वपर्यायान् जानन् पश्यंश्च विहरतीति व्याख्येयम् ॥ १२१ ॥
इतश्च तस्मिन्नवसरे मिलितेषु सुरासुरेषु स्थले वृष्टिमिव निष्फलां देशनां क्षणं दत्वा प्रभुः अपापापुर्यां महसेनवने जगाम, तत्र च यज्ञं कारयतः सोमिलविप्रस्य गृहे बहवो ब्राह्मणा मिलिताः संति, तेषु च इंद्रभूति (१) अग्निभूति (२) वायुभूति (३) नामाननयः सहोदराश्चतुर्दशविद्याविशारदाः क्रमेण जीव (१) कर्म (२) तज्जीवतच्छरीर (३) संदेहवंतः पंचशतपरिवाराः संति, एवं व्यक्तः (४) सुधर्मा (५) चेति द्वौ द्विजो तावत्परिवारौ तथैव विद्वांसौ कमात् पंचभूतानि संति न वेति (४) यो । यादृशः स तादृश (५) इति च संदेहवंती, तादृशौ एव च मंडित (६) मौर्यपुत्र (७) नामानौ बांधवौ8 साईत्रिशतपरिवारौ क्रमात् बंध (६) देव (७) विषयकसंदेहवंती, तथा अकंपितः (८) अचलभ्राता (९) मैतार्यः (१०) प्रभास (११) श्चेति चत्वारो द्विजाः प्रत्येकं त्रिशतपरिवाराः क्रमेण नैरयिक (८) पुण्य (९) परलोक (१०) मोक्ष (११) संदेहभाजस्तत्रागताः संति, ते चैकादशाऽपि द्विजा एकैकसंदे