SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ नोत्पत्तिः इत्यकथयत् । ततो मेंढिकग्रामे चमरेंद्रः प्रियं पप्रच्छ । ततः षण्मानिग्रामे स्वामिनो बहिः प्रतिमास्थस्य पार्श्वे गोपो वृषान्मुक्त्वा ग्रामं प्रविष्टः, आगतश्च पृच्छति, देवार्य ! क्व गता वृषभाः ? भगवता च मौने कृते रुष्टेन तेन खामिकर्णयोः कटशलाके तथा क्षिप्ते यथा परस्परं लग्नाऽग्रे ! अग्रच्छेदनाच्च अदृश्याग्रे जाते ! एतच्च कर्म शय्यापालकस्य कर्णयोस्त्रपुप्रक्षेपेण त्रिपृष्ठभवे उपार्जितं अभूत् , उदितं च वीरभवे ! शय्यापालको भवं भ्रांत्वा अयमेव गोपः संजातः ! ततः प्रभुमध्यमाऽपापायां गतस्तत्र प्रभु सिद्धार्थवणिग्गेहे भिक्षार्थं आगतं निरीक्ष्य खरकवैद्यः स्वामिनं सशल्यं ज्ञातवान् , पश्चात्स वणिक् तेन वैद्येन सहोद्यानं गत्वा संडासकाभ्यां ते शिलाके निर्गमयतिस्म, तदाऽऽकर्षणे च वीरेण 8 आराटिस्तथा मुक्ता यथा सकलमपि उद्यानं महाभैरवं बभूव ! तत्र देवकुलमपि कारितं लोकैः,18 प्रभुश्च संरोहिण्या औषध्या नीरोगो बभूव, वैद्यवणिजौ वर्जग्मतुर्गोपः सप्तमनरकं ! एवं चोपसर्गा गोपेन आरब्धास्तेनैव निष्ठिताश्च । एतेषां च जघन्यमध्यमोत्कृष्टविभाग एवं-जघन्येषूत्कृष्टः कटपूतनाशीतं, मध्यमेषूत्कृष्टं कालचक्र, उत्कृष्टेषूत्कृष्टं कर्णकीलकर्षणं, इतिउपसर्गाः ॥ एतान्सर्वान्सम्यग्सहते,
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy