________________
कल्पसूत्रसुबोध० ॥ १७० ॥
मेव युवती भाविनी ! अहं निर्माल्यप्राया ! इति विषण्णचित्ता तां शिरोमुंडननिगडक्षेपणपूर्वं यंत्रमध्ये निरुद्ध्य कापि गता । श्रेष्ठ्यपि कथमपि चतुर्थे दिने तच्छुद्धिं प्राप्य यंत्रं उद्घाट्य तां तदवस्थां देहल्यां संस्थाप्य सूर्यकोणे कुल्माषान् अर्पयित्वा निगडभंगार्थं लोहकाराकारणाय यावद्गतस्तावद्यदि कोऽपि भिक्षुरागच्छेत्तर्हि दत्त्वा कुल्माषान् भुंजे इति चिंतयंत्यां तस्यां भगवान् समागतः ! साऽपि प्रमुदिता गृहाणेदं प्रभो ! इति जगौ, ततः स्वामी अभिग्रहे रोदनं न्यूनं निरीक्ष्य निवृत्तस्ततो वसुमती अहो ! अस्मिन्नवसरे भगवानागत्य किंचिदपि अगृहीत्वा निवृत्त इति दुःखतो रुरोद, ततः पूर्णाऽभिग्रहः स्वामी कुल्माषान् अग्रहीत्, अत्र कविः - " चंदना सा कथं नाम, बालेति प्रोच्यते बुधैः । मोक्षमादत्त कुल्माबे- महावीरं प्रतार्य या ॥ १ ॥ " ततः पंच दिव्यानि जातानि शक्रः समागतः, देवा ननृतुः, केशाः शिरसि संजाताः, निगडानि च नूपुराणि, ततो मातृष्वसुर्मृगावत्या मिलनं, तत्र च संबंधितया वसुधाराधनं आददानं शतानीकं निवार्य चंदनाज्ञया धनावहाय तद्दत्वा वीरस्य प्रथमा साध्वी इयं भविष्य - | तीत्यभिधाय शक्रस्तिरोदधे । ततः क्रमेण जृंभिकाग्रामे शक्रो नाट्यविधिं दर्शयित्वा इयद्भिर्दिनैर्ज्ञा
षष्ठः
क्षणः
॥ ६ ॥
॥ १७० ॥