________________
चमरोत्पातः, ततः क्रमेण कौशाम्ब्यां गतस्तत्र शतानीको राजा, मृगावती देवी, विजया प्रतीहारी, ६ वादीनामधर्मपाठकः, सुगुप्तोऽमात्यस्तद्भार्या नंदा, सा च श्राविका मृगावत्या वयस्या। तत्र प्रभुणा | पोषबहुलप्रतिपदि अभिग्रहो जगृहे, यथा-"द्रव्यतः कुल्माषान् सूर्पकोणस्थान् , क्षेत्रत एक पादं देहल्या अंतः एकं बहिश्च कृत्वा स्थिता, कालतो निवृत्तेषु भिक्षाचरेषु, भावतो 'राजसुता' 'दासत्वं-14 प्राप्ता' 'मुंडितमुंडा' 'निगडितचरणा' 'रुदती' 'अष्टमभक्तिका' चेदास्यति तदा ग्रहीष्यामि"इत्यभिगृह्य । प्रत्यहं भिक्षायै भ्राम्यति, अमात्यादयोऽनेकानुपायान् कुर्वति, नत्वभिग्रहः पूर्यते ! ॥ | तदा च शतानीकेन चंपा भग्ना. तत्रच दधिवाहनभूपभार्या धारिणी, तत्पुत्री च वसुमती, द्वे अपि
केनचित्पदातिना बंदितया गृहीते, तत्र च धारिणि ! त्वां भार्यां करिष्यामीति पत्तिवार्त्तया जिह्वाचर्व-18 हणेन मृता, ततो वसुमती पुत्रीति समाश्वास्य कौशाम्ब्यां आनीय चतुष्पथे विक्रेतुं स्थापिता, तत्र
धनावेहश्रष्ठिना गृहीत्वा चंदनेति कृताभिधाना पुत्रीत्वेन स्थापिताऽतीव प्रिया च, एकदा च खपादौ प्रक्षालयंत्यास्तस्याःश्रेष्ठिना स्वयं गृहीतां भूलुठवणिं निरीक्ष्य 'मूला'नाम्नी श्रेष्ठिपत्नी गृहस्वामिनी तुइय