________________
कल्पसूत्र
सुबोधि०
॥१६९॥
शक्रः पराङ्मुखीभूय सुरानित्यूचे, हंहो ! सुराः ! असौ कर्मचंडालः पापात्मा समागच्छति, अस्थ दर्शनमपि महापापाय भवति ! अनेनाऽस्माकं बहु अपराद्धं ! यदस्मदीयः खामी कदर्थितः ! अर्थ पापात्मा यथा अस्मत्तो न भीतस्तथा पातकादपि न भीतस्तदपवित्रोऽसौ दुरात्मा ! शीघ्रं स्वर्गान्निर्वास्यतां ! इत्यादिष्टैः शक्रसुभटैर्निर्द्दयं यष्टिमुष्ट्यादिभिस्ताड्यमानः सांगुलिमोटनं कृतान् सुरीणां आक्रोशान्सहमानचौर इव साशंक इतस्ततो विलोकयन्निर्वाणांगार इव निस्तेजा निषिद्धाऽखिलपरिवार एकाकी अलर्कः श्वेव देवलोकान्निष्काशितो मंदरचूलायां एकसागरावशेषं आयुः समापयिष्यति, तस्याग्रमहिष्यश्च दीनाननाः शक्राज्ञया स्वभर्तारमनु जग्मुः ॥
ततः स्वामिन आलंभिकायां हरिकांतः, श्वेतंबिकायां हरिसहश्च, विद्युत्कुमारेंद्रौ प्रियं प्रष्टुं एतौ ततः श्रावस्त्यां शक्रः स्कंदप्रतिमायामवतीर्य स्वामिनं वंदितवान्, ततो महती महिमप्रवृत्तिः, ततः कौशाम्ब्यां चंद्रसूर्यावतरणं, वाराणस्यां शक्रः, राजगृहे ईशानः, मिथिलायां जनको राजा धरणेंद्रश्च प्रियं | पृच्छतिस्म, ततो वैशाल्यां एकादशो वर्षारात्रोऽभूत्, तत्र भूतः प्रियं पृच्छति, ततः सुंसुमारपुरं गतस्तत्र
षष्ठः
क्षणः
11 & 11
॥१६९॥