SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ RSS RS3* S हावभावादिभिः उपसर्गयंति ॥२०॥ एवं एकस्यां रात्रौ विंशत्या उपसर्गेस्तेन कृतैर्मनागपि न चलितः स्वामी, अत्र कविः-"बलं जगद्धंसनरक्षणक्षम, कृपा च सा संगमके कृतागसि।इतीव संचिंत्य विमुच्य मानसं, रुषेव रोषस्तव नाथ ! निर्ययौ ॥ १॥” ततः षण्मासी यावत् अनेषणीयाहारसंपादनादीन् / तत्कृतान् नानाप्रकारान् उपसर्गान्सहमानो भगवान्निराहार एव षण्मास्या स गतो भविष्यतीति विचिंत्य यावद्वजग्रामगोकुले गोचर्यायां प्रविष्टस्तावत्तत्रापि तत्कृतां अनेषणां विज्ञाय तथैवागत्य बहिः प्रतिमया तस्थौ, ततः स सुराधमः कथमपि अस्खलितं विशुद्धपरिणामं जगदीश्वरं अवधिना विज्ञाय , विषण्णमानसोऽपि शक्रभियाऽभिवंद्य सौधर्म प्रति चचाल, खामी च तत्रैव गोकुले हिंडन् वत्सपाल्या | स्थविरया परमान्नेन प्रतिलंभितो वसुधारा च निपतिता ॥ इतश्च तावंतं कालं यावत्सर्वे सौधर्मवासिनो देवा देव्यश्च निरानंदा निरुत्साहास्तस्थुः, शक्रो-18 पि विवर्जितगीतनाट्य एतावतां उपसर्गाणां हेतुर्मत्कृता प्रशंसैवेति महादुःखाक्रांतचित्तः करकमल: * विन्यस्तमुखो दीनदृष्टिर्विमनस्कस्तस्थौ, ततश्च भ्रष्टप्रतिज्ञं श्याममुखं आगच्छंतं तं सुराधर्म निरीक्ष्य
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy