________________
कल्पसूत्रसुबोधि० ॥१६८॥
सोऽभूत् (१) ततो वज्रतुंडपिपीलिकाभिश्चालनीतुल्यश्चक्रे, ताश्चैकतः प्रविशति अन्यतो नियांति (२) तथा वज्रतुंडा उइंशाः (३) तीक्ष्णतुंडा घृतेल्लिकाः (४) वृश्चिकाः (५) नकुलाः (६) सर्पाः (७) मूषका (८)श्च भक्षणादिना । तथा हस्तिनः (९) हस्तिन्यश्च (१०) शुंडाघा-* तचरणमर्दनादिना । पिशाचो (११) ऽट्टहासादिना । व्याघ्रो दंष्ट्रानखविदारणादिना (१२) ततः सिद्धार्थत्रिशले करुणाविलापादिना (१३) उपसर्गयति। ततः स्कंधावारविकुर्वणा, तत्र च जनाः प्रभु-2 चरणयोर्मध्येऽग्निं प्रज्वाल्य स्थाली उपस्थाप्य पचंति (१४) ततश्चंडालास्तीक्ष्णतुंडशकुनिपंजराणि प्रभोः कर्णबाहमूलादिषु लंबयंति. ते च मखैर्भक्षयंति (१५) ततः खरवातः पर्वतानपि कंपयन्प्रभा उत्क्षिप्य २ पातयति ( १६ ) ततः कलिकावातश्चक्रवद्धमयति (१७ ) ततो येन मुक्तेन मेरुचू-18 लापि चूर्णीस्यात्तादृशं सहस्रभारप्रमाणं कालचक्र मुक्तं, तेन प्रभुः आजानु भूमौ निमग्नः (१८) | ततः प्रभातं विकृत्य वक्ति, देवार्य ! अद्यापि किं तिष्ठसि ? स्वामी ज्ञानेन रात्रिं वेत्ति ( १९) ततो देवर्द्धि विकुळ वृणिष्व महर्षे ! येन तव स्वर्गेण मोक्षेण वा प्रयोजनं, तथापि अक्षुब्धं देवांगना
॥१६८॥