________________
| स्तंबो निष्पन्न इति प्रभुः प्रत्याह, गोशालोऽश्रद्दधत्तां तिलशंबां विदार्य सप्त तिलान् दृष्ट्वा "त एव | प्राणिनस्तस्मिन्नेव शरीरे पुनः परावृत्य समुत्पद्यंते” इति मतं नियतिं च गाढीकृतवान्, ततः प्रभोः पृथग्भूय श्रावस्त्यां कुंभकारशालास्थितो भगवदुक्तोपायेन तेजोलेश्यां साधयित्वा त्यक्तव्रत श्रीपार्श्वनाथशिष्यात् अष्टांगनिमित्तं चाऽधीत्याऽहंकारेण सर्वज्ञोऽहं इति ख्यापयतिस्म [ यच्चोक्तं किरणावलीकारेण तेजोलेश्योपायः सिद्धार्थेनोक्त इति तञ्चित्यं ! भगवतीसूत्राऽऽवश्यकचूर्णिहारिभद्रीवृत्ति हैमवीर चरित्राद्यनेकग्रंथेषु भगवतोक्त इत्यभिधानात् ] ततः स्वामी श्रावस्त्यां दशमं वर्षारात्रं तत्र विचित्रं तपश्चाऽकरोदित्याद्यनुक्रमेण स्वामी बहुम्लेच्छां दृढभूमिं गतस्तस्यां बहिः पेढालग्रामात् पोलासचैत्येSष्टमभक्तेन एकरात्रिकीं प्रतिमां तस्थिवान् ॥
इतश्च सभागतः शक्रस्त्रैलोक्यजना अपि वीरचेतश्चालयितुं असमर्थाः ! इति प्रभोः प्रशंसां कृतवान्, तत् श्रुत्वा च अमर्षेण सामानिकः संगमाख्यसुरः क्षणात्तं चालयामीति शक्रसमक्षं कृतप्र|तिज्ञः शीघ्रं प्रभुसमीपमागत्य प्रथमं धूलिवृष्टिं चकार, यया पूर्णाक्षिकर्णादिविवरः स्वामी निरुच्छ्छा