________________
कल्पसूत्र
सुबोधि०
॥१६७॥
वसत्यभावाच्च नवमं वर्षारात्रं अनियतं अकार्षीत् । ततः कुर्मग्रामं गच्छन् मार्गे तिलस्तंबं दृष्ट्वा अयं निष्पत्स्यते न वेति गोशालः पप्रच्छ ततः प्रभुणा सप्ताऽपि तिलपुष्पजीवा मृत्वा एकस्यां शंबायां तिला भविष्यतीति प्रोक्ते तद्वचनं अन्यथा कर्तुं तं स्तंबं उत्पाट्य एकांते मुमोच ततः सन्निहितव्यंतरैर्मा प्रभुवचोऽन्यथाऽभूदिति वृष्टिश्चक्रे, गोखुरेण च आर्द्रभूमौ स तिलस्तंबः स्थिरीबभूव । ततः प्रभुः कूर्मग्रामे गतस्तत्र च वैश्यायनतापसस्य आतापनाग्रहणाय मुत्कलमुक्तजटामध्ये यूकाबाहुल्यदर्शनात् गोशालो 'यूकाशय्यातर' इति तं वारं २ हसितवान्, ततस्तेन क्रुद्धेन तेजोलेश्या मुक्ता, तां च कृपारसांभोधिर्भगवान् शीतलेश्यया निवार्य गोशालं रक्षितवान् ! ततो मंखलिसुतस्तस्य तापसस्य | तेजोलेश्यां विलोक्य कथमियं उत्पद्यते ? इति भगवंतं पृष्टवान्, भगवानपि अवश्यंभावितया भुजंगस्य पयःपानमिव तादृगनर्थकारणं अपि तेजोलेश्याविधिं शिक्षितवान्, यथा- "आतापनापरस्य सदा षष्ठतपसः सनखकुल्माषपिंडिकया एकेन च उष्णोदकचुलुकेन पारणां कुर्वतः षण्मास्यंते तेजोलेश्योत्पद्यते इति” ततः सिद्धार्थपुरे व्रजन् गोशालेन स तिलस्तंबो न निष्पन्न इत्युक्ते स एष तिल
षष्ठः
क्षणः
11 & 11
॥१६७॥