SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र. सुबोधि० ॥१६६॥ षेणनामाचार्यः प्रतिमास्थितश्चौरभ्रांत्या आरक्षकपुत्रेण भल्या हतो जाताऽवधिः स्वर्जगाम, शेषं च गोशालवचनादि मुनिचंद्रवत् । ततः स्वामी 'कुपिक' सन्निवेशं गतस्तत्र चारिकशंकया गृहीतः पार्श्वतेवासिनीभ्यां प्रव्राजिकीभूताभ्यां विजयाप्रगल्भाभ्यां मोचितः, ततो गोशालः स्वामितः पृथग्भूतोऽन्यस्मिन्मार्गे गच्छन्पंचशतचौरैर्मातुल २ इति कृत्वा स्कंधोपरि आरुह्य वाहितः ! खिन्नोऽचिंतयत्, स्वामिनैव सार्द्धं वरं इति स्वामिनं मार्गयितुं लग्नः, स्वाम्यपि वैशाल्यां गत्वाऽयस्कारशालायां प्रतिमया स्थितस्तत्र एकोऽयस्कारः षण्मासीं यावद्रोगी भूत्वा नीरोगः सन्नुपकरणान्यादाय शालायां आगतः, स्वामिनं निरीक्ष्य अमंगलं इति बुद्ध्या घनेन हंतुमुद्यतोऽवधिना ज्ञात्वा आगत्य शक्रेण तेनैव घनेन हतः । ततः स्वामी 'ग्रामाक' सन्निवेशं गतस्तत्रोद्याने बिभेलकयक्षो महिमानं चक्रे । ततः शालिशीर्षे ग्रामे उद्याने प्रतिमास्थस्य स्वामिनो माघमासे त्रिपृष्टभवापमानिता अंतःपुरी मृत्वा व्यंतरीभूता तापसीरूपं कृत्वा जलभृतजटाभिः अन्यदुःसहं शीतोपसर्ग चक्रे, प्रभुं च निश्चलं विलोक्य उपशांता स्तुतिं चकार ! प्रभोश्च तं सहमानस्य षष्ठेन तपसा विशुद्ध्यमानस्य लोकावधिरुत्पन्नः । ततः स्वामी षष्ठः क्षणः ॥ ६॥ ॥१६६॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy