________________
कल्पसूत्रसुबोध०
॥१६५॥
गोशालः क्षिप्तः, प्रभुस्तु नाऽद्याऽपि तावता तत्र सोमाजयंतीनान्यौ उत्पलभगिन्यौ संयमाक्षमे प्रत्राजिकीभूते प्रभुं वीक्ष्योपलक्ष्य च ततः कष्टान्मोचयामासतुः । ततः प्रभुः पृष्टचंपां प्राप्तः, तत्र वर्षाश्चतुर्मासक्षपणेन अतिवाह्य बहिः पारयित्वा 'कायंगल सन्निवेशं गत्वा श्रावस्त्यां गतस्तत्र बहिः प्रतिमया स्थितस्तत्र सिद्धार्थेन गोशालाय प्रोक्तं यद् 'अद्य त्वं मनुष्यमांसं भोक्ष्यसे' ततः सोऽपि तन्निवारणाय वणिग्गेहेषु भिक्षायै बभ्राम, तत्र च पितृदत्तो वणिक, तस्य भार्या च मृतापत्यप्रसूरस्ति, तस्याश्च नैमित्तिकशिवदत्तेनोक्तोऽपत्यजीवनोपायो यत् तस्य मृतबालकस्य मांसं पायसेन विमिश्रं कस्यचिद्भिक्षोर्देयं, तया च तेनैव विधिना गोशालाय दत्तं, गृहज्वालनभयाच्च गृहद्वारं परावर्त्तितं, गोशालोऽपि अज्ञातस्वरूपस्तद्भक्षयित्वा भगवत्समीपमागतः, सिद्धार्थेन यथास्थिते उक्ते वमनेन कृतनिर्णयश्च तद्गृहज्वालनाय आगतस्तद्गृहं अलब्ध्वा तं पाटकं एव भगवन्नाम्ना ज्वालितवान् ! ततः स्वामी बहिर्हरिद्रसन्निवेशात् हरिद्रवृक्षस्य अधः प्रतिमया तस्थौ पथिकप्रज्वालिताऽग्निना अनपसारणात्प्रभोः पादौ दग्धौ ! गोशालो नष्टः ! ततः स्वामी 'नंगला'ग्रामे वासुदेवगृहे प्रतिमया स्थितस्तत्र
षष्ठः
क्षणः
॥ ६॥
॥१६५॥