________________
कल्पमूत्रसुबोधि
॥१६४॥
च, गोशालश्च तस्यां तंतुवायशालायां खामिनं अनिरीक्ष्य समग्रे राजगृहनगरे गवेषयन् खोपकरणं द्विजेभ्यो दत्वा मुखं शिरश्च मुंडयित्वा कोल्लाके भगवंतं दृष्ट्वा “त्वत्प्रव्रज्या मम भवतु” इत्युक्तवान् ! ततस्तेन शिष्येण सह खामी 'सुवर्णखल ग्राम प्रति प्रस्थितः मार्गे च गोपैर्महास्थाल्यां पायसं पच्य
मानं निरीक्ष्य गोशालः स्वामिनं जगौ, अत्र भुक्त्वा गम्यते, सिद्धार्थेन च तद्भगे कथिते गोशालेन है च गोपेभ्यस्तद्भगे ज्ञापिते गोपैर्यत्नेन रक्षिताऽपि सा स्थाली भग्ना! ततो गोशालेन “यद्भाव्यं तद्भवत्येवेति निश्चयः स्वीकृतः,” ततः खामी 'ब्राह्मणग्राममगात्, तत्र नंदोपनंदभ्रातृद्वयसंबंधिनौ द्वौ पाटकौ, खामी नंदपाटके प्रविष्टः, प्रतिलाभितश्च नंदेन, गोशालस्तु उपनंदगृहे पर्युषितान्नदानेन । रुष्टो यद्यस्ति मे धर्माचार्यस्य तपस्तेजस्तदाऽस्य गृहं दह्यतां इति शशाप! तदनु तद्गृहं आसन्नदेवता ददाह । पश्चात्प्रभुश्चंपायां उपागतस्तत्र द्विमासक्षपणेन चतुर्मासी अवसत्, चरमद्विमासपारणां च चंपायां बहिः कृत्वा 'कोला'संनिवेशं गतः स्थितश्च शून्यगृहे कायोत्सर्गेण, गोशालेन तु तत्रैव शून्य-18| ॥१६॥ रहे 'सीहो' ग्रामणीपुत्रो विद्युन्मत्या दास्या सह क्रीडन् हसितः ! कुहितश्च तेन, स्वामिनं प्राह, अहं है।