________________
| कधर्मं च, तत उत्पलो वंदित्वा गतः, तत्र स्वामी अष्टभिः अर्धमासक्षपणैः तां प्रथमां चतुर्मासीमतिक्रम्य ततः स्वामी मोराकसन्निवेशं गतस्तत्र प्रतिमास्थितस्य वीरस्य सत्कारार्थं सिद्धार्थः भगवद्देहं अधिष्ठाय निमित्तानि कथयति, भगवतो महिमा जायते स्म भगवन्महिमानं दृष्ट्वा प्रद्विष्टेन अच्छंद| केन तृणच्छेदविषये प्रश्ने कृते सिद्धार्थेन न छेत्स्यते इत्युक्ते छेदनोद्यतस्य तस्यांगुलीर्दत्तोपयोगः शक्रः समागत्य वज्रेण चिच्छेद, ततो रुष्टः सिद्धार्थो जनानां चौरोयमित्यवदत्, ततः कथमिति जनेषु पृच्छत्सु सिद्धार्थो जगौ, अनेन कर्मकरवीरघोषस्य दशपलप्रमितं वट्टलकं गृहीत्वा खर्जूरीवृक्षाधः स्थापितं, द्वितीयं इंद्रशर्मण ऊरणको भक्षितस्तदस्थीनि स्वगृहबदर्या अधः स्थापितानि संति, तृतीयं तु अवाच्यं ! अस्य भार्यैव कथयिष्यति, ततो जनैर्गत्वा भार्या पृष्टा, साऽपि तद्दिने तेन सह कृतकलहा कोपादुवाच भो भो जनाः ! अद्रष्टव्यमुखोऽयं पापात्मा ! यदयं स्वभगिनीमपि भुंक्ते ! ततः स भृशं लज्जितो विजने समागत्य स्वामिनं विज्ञापयामास, स्वामिन् ! त्वं विश्वपूज्यः सर्वत्र पूज्यसे, अहं