SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ******* ॥१६॥ शर्माणौ अपि अधीताष्टांगनिमित्तौ तत्राऽऽगतो, ते भगवंतं दिव्यगंधचूर्णपुष्पपूजितं निरीक्ष्य प्रमुदि-18| षष्ठः ताः प्रणमंति, तत उत्पलोऽवोचत् , हेभगवन् ! ये त्वया निशाशेषे दश स्वप्ना दृष्टास्तेषां फलं त्वया क्षणः तु ज्ञायते एव तदपि मया कथ्यते, यत्त्वया तालपिशाचो हतस्तेन त्वं अचिरेण मोहनीयं कर्म हनि-ITMER ष्यसि (१) यच्च सेवमानः सितः पक्षी दृष्टस्तेन त्वं शुक्लध्यानं ध्यास्यसि (२) यश्च चित्रकोकिलः |सेवमानो दृष्टस्ततः त्वं द्वादशांगी प्रथयिष्यसि (३) यच्च गोवर्गः सेवमानो दृष्टस्तेन साधु-साध्वी श्रावक-श्राविकारूपश्चतुर्विधः संघस्त्वां सेविष्यते ( ४ ) यश्च त्वया स्वप्ने समुद्रस्तीर्णस्तत्त्वं संसारं है तरिष्यसि (५) यश्चोद्गच्छन् सूर्यो दृष्टस्तेन तव अचिरात् केवलज्ञानं उत्पत्स्यते (६) यच्च त्वया 5 अत्रैर्मानुषोत्तरो वेष्टितस्तेन त्रिभुवने तव कीर्तिर्भविष्यति (७) यञ्च त्वं मंदरचूलां आरूढस्तेन त्वं सिंहासने उपविश्य देवमनुजपर्षदि धर्म प्ररूपयिष्यसि (८) यच्च त्वया विबुधालंकृतं पद्मसरो दृष्टं ॥१६१॥ तेन चतुर्निकायजा देवास्त्वां सेविष्यंते (९) यत्त्वया मालायुग्मं दृष्टं तदर्थं तु नाऽहं जानामि, तदा भगवता प्रोक्तं, हेउत्पल! यन्मया दामयुग्मं दृष्टं तेन अहं द्विविधं धर्म कथयिष्यामि, साधुधर्म श्राव *SARAAG
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy