SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ भगवांस्तु तत्प्रतिबोधनाय तत्र चैत्ये समागतः, दुष्टोऽयं रात्रौ स्वचैत्ये स्थितं व्यापादयतीति जनैर्वा र्यमाणोऽपि तत्रैव रात्रौ स्थितः, तेन च भगवतः क्षोभाय भूमिभेदकरोऽदृट्टहासः कृतस्ततो हस्तिरूपं, ततः सर्परूपं, ततः पिशाचरूपं च विकृत्य दुस्सहा उपसर्गाः कृताः, भगवांस्तु मनागपि न क्षुभितः ! तत एकैकाऽपि याऽन्यजीवितापहा तथाविधाः शिरः ( १ ) कर्ण ( २ ) नासिका (३) चक्षु ( ४ ) दंत ( ५ ) पृष्ठ (६) नख ( ७ ) लक्षणेषु सुकुमारेष्वंगेषु विविधा वेदनाः प्रारब्धाः, तथाऽपि अकं - पितचित्तं भगवंतं निरीक्ष्य स प्रतिबुद्धः, अस्मिन्नवसरे च सिद्धार्थः समागत्योवाच, भोनिर्भाग्यदुर्लक्षणशूलपाणे ! किमेतत् आचरितं ? यत् सुरेंद्रपूज्यस्य भगवत आशातना कृता ! यदि शक्रो ज्ञास्यति तदा तव स्थानं स्फेटयिष्यति ! ततः पुनर्भीतः सन्नधिकं भगवंतं पूजयामास भगवतोऽग्रे गायति नृत्यति च तदाकर्ण्य च लोकाश्चिंतितवंतो, यदनेन स देवार्यो हतस्ततो गायति नृत्यति च, तत्र च स्वामी देशोनान्, रात्रेश्चतुरोऽपि यामान् यदत्यंतं वेदनां सोढवान् इति प्रभाते क्षणं निद्रां लेभे तत्र च प्रभुरुर्द्धस्थ एव दश स्वप्नान् दृष्ट्वा जागरितः, प्रभाते लोको मिलितः, उत्पलेंद्र
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy