________________
कल्पसूत्रसुबोधि०
॥ १५९ ॥
मागतो भगवंतं निरीक्ष्य दध्यौ, अहो ! मया वृथैव महता कष्टेन सामुद्रिकं अधीतम् ! यदि ईदृग् लक्षणलक्षितोऽपि श्रमणो भूत्वा व्रतकष्टं समाचरति तदा सामुद्रिकपुस्तकं जले क्षेप्यमेव, इतश्च दत्तोपयोगः शक्रः शीघ्रं तत्राऽऽगत्य भगवंतं अभिवंद्य पुष्पं उवाच, भो ! भोः ! सामुद्रिक ! मा वि - बीद, सत्यमेवैतत्तव शास्त्रं, यदयं अनेन लक्षणेन जगत्रयस्यापि पूज्यः, सुरासुराणामपि खामी, सर्वोतमसंपदाश्रयस्तीर्थेश्वरो भविष्यति, किंच - " कायः स्वेदमलामय - विवर्जितः श्वासवायुरपि सुरभिः । समणे भगवं महावीरे साइरेगाई दुवालसवासाईं णिचं
रुधिरामिषमपि धवलं, गोदुग्धसहोदरं नेतुः ॥ १ ॥" इत्यादीन्यपरिमितानि अस्य बाह्याभ्यंतराणि लक्षणानि केन गणयितुं शक्यानि ? इत्यादि वदन्पुष्पं मणिकनकादिभिः समृद्धिपात्रं विधाय शक्रः स्वस्थानं ययौ, सामुद्रिकोऽपि प्रमुदितः स्वदेशं गतः प्रभुरप्यन्यत्र विजहार ॥ समणे भगवं महावीरे श्रमणो भगवान् महावीरः साइरेगाईं दुवालसवासाईं सातिरेकाणि द्वादशवर्षाणि यावत् णिच्चंति
षष्ठः
क्षणः
॥ ६॥
॥१५९॥