________________
| केचित, प्रथमं विप्रकुलोत्पन्नं सूचयतीत्यपरे, ] ब्राह्मणस्तु तदई गृहीत्वा दशांचलकृते तुन्नवायस्या
दर्शयत् , विप्रेण तस्याने सकले व्यतिकरे निवेदिते सोप्युवाच, याहि भो ब्राह्मण ! तमेव प्रभुं अनुगच्छ, स हि निर्ममः, करुणांभोधिर्द्वितीयं अपि अर्द्ध दास्यति, ततस्तदर्द्धद्वयं अहं तथा योजयिष्यामि | यथा अक्षतस्येव तस्य दीनारलक्षं मूल्यं भविष्यति, तेन अर्द्धमई विभक्तेन द्वयोरप्यावयोर्दारिद्र्यं यास्यति, इति तत्प्रेरितो विप्रोऽपि पुनः प्रभुपार्श्वमागतो लज्जया प्रार्थयितुं अशक्तो वर्ष यावत्पृष्ठे
श्व स्वयं पतितं तदई गृहीत्वा जगाम, तदेवं भगवता सवस्त्रधमे साधिकं वर्षं यावद्वस्त्रं स्वीकृतं, सपात्रधर्मस्थापनाय च प्रथमां पारणां पात्रेण कृतवान् , ततः परं तु | यावज्जीवं अचेलकः पाणिपात्रश्चाभूत् ॥
एवं च विहरतो भगवतः कदाचिद्गातटे सूक्ष्ममृत्तिकाकर्दमप्रतिबिंबितपदपंक्तिषु चक्रध्वजांकुशादीनि लक्षणानि निरीक्ष्य पुष्पनामा सामुद्रिकश्चिंतयामास! यदयं एकाकी कोऽपि चक्रवर्ती गच्छति, तद्गत्वाऽस्य सेवां करोमि यथा मम महानुदयो भवतीति त्वरितं पदानुसारेण भगवत्पार्श्व