________________
कल्पसूत्रसुबोधि०
॥१५८॥
श्रीवर्द्धमानेन सुवर्ण मेघायितं तदा त्वं परदेशे गतः, अधुना पुनर्निर्धनः समागतो! याहि दूरं, मुखं । मा दर्शय ! अथवा सांप्रतं अपि तमेव जंगमं कल्पतरं याचख, यथा तव दारिद्र्यं हरति, यतः-"यैः प्राग्दत्तानि दानानि, पुनातुं हि ते क्षमाः । शुष्कोऽपि हि नदीमार्गः, खन्यते सलिलार्थिभिः ॥१॥ ६ इत्यादिवाक्यैर्भार्याप्रेरितो भगवत्पार्श्वमागत्य विज्ञापयामास, प्रभो! त्वं जगदुपकारी विश्वस्याऽपि
त्वया दारिद्यं निर्मूलितं ! अहं तु निर्भाग्यस्तस्मिन्नवसरेऽत्र नाऽभूवं ! तत्रापि-"किं किं न कयं को है को, न पत्थिओ कह कह न नामियं सीसं । दुब्भरउयरस्स कए, किं न कयं किं न कायवं ॥१॥
तथापि भ्रमता मया न किंचित्प्राप्तं, ततोऽहं निष्पुण्यो निराश्रयो निर्धनस्त्वामेव जगद्वांछितदायक शरणायोपेतोऽस्मि, तव विश्वदारिद्यहरस्य मदारियहरणं कियन्मात्रं ! यतः-"संपूरिताशेषमहीतलस्य, पयोधरस्याद्भुतशक्तिभाजः। किं तुंबपात्रप्रतिपूरणाय, भवेत्प्रयासस्य कणोऽपि नूनम् ॥१॥” एवं च याचमानाय विप्राय करुणापरेण भगवता देवदूष्यवस्त्रस्य अर्द्ध दत्तं, [इदं च तादृग्दानदायिनोऽपि 8॥१५८॥ |भगवतो नियोजनस्यापि वस्त्रस्य यदर्द्धदानं तत् भगवत्संततेर्वस्त्रपात्रेषु मूछो सूचयति इति ।