SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ है चंद्रकांता नगरी तत्र विजयसेनो राजा श्रीकांताख्यश्च व्यवहारी तस्य श्रीसखी भार्या तया है च बहुप्रार्थित एकः सुतः प्रसूतः स च बालक आसन्ने पर्युषणापर्वणि कुटुंबकृतां अष्टमवाता है आकर्ण्य जातजातिस्मृतिः स्तन्यपोऽपि अष्टमं कृतवान् । ततस्तं स्तन्यपानमकुर्वाणं पर्युषितमालतीकुसुममिव म्लानं आलोक्य मातापितरौ अनेकानुपायांश्चक्रतुः । क्रमाच्च मूर्छा प्राप्तं तं बालं मृतं ज्ञात्वा खजना भूमौ निक्षिपतिस्म । ततश्च विजयसेनो राजा तं पुत्रं तदुःखेन तत्पितरं च मृतं विज्ञाय तद्धनग्रहणाय सुभटान्प्रेषयामास । इतश्च अष्टमप्रभावात्प्रकंपितासनो धरणेंद्रः सकलं तत्स्वरूपं विज्ञाय भूमिष्ठं तं बालकं अमृतछटया आश्वास्य विप्ररूपं कृत्वा धनं गृह्णतस्तानिवार-18 यामास । तत् श्रुत्वा राजापि त्वरितं तत्रागत्योवाच भोभूदेव! परंपरागतं इदं अस्माकं अपुत्रधन-1 ग्रहणं कथं निवारयसि ? धरणोवादीत् राजन्! जीवत्यस्य पुत्रः कथं ? कुत्रास्तीति राजादिभिरुक्ते । भूमेस्तं जीवंतं बालकं साक्षात्कृत्य निधानमिव दर्शयामास । ततः सर्वैरपि सविस्मयैः खामिन् ! कस्त्वम् ? कोऽ यम्? इति पृष्टे सोऽ वदत् । अहं धरणेद्रो नागराजः कृताष्टमतपसोऽस्य महात्मनः
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy