________________
प्रथमः
कल्पसूत्रसुबोधि०
क्षण:
॥
१
॥
॥९॥
रात्रौ विहितकालग्रहणादिविधीनां साधूनां वाचनं श्रवणं च ।साध्वीनां च निशीथचूायुक्तविधिना दिवापि श्रवणम् । तथा श्रीवीरनिर्वाणादशीत्यधिकनवशत ९८० वर्षातिक्रमणे मतांतरेण च त्रिनवतियुत नवशत ९९३ वर्षातिक्रमे ध्रुवसेननृपस्य पुत्रमरणातस्य समाधिमाधातुमानंदपुरे सभासमक्षं सम-12 होत्सवं श्रीकल्पसूत्रं वाचयितुमारब्धम् । ततः प्रभृति चतुर्विधोपि संघः श्रवणेऽधिकारी । वाचने तु विहितयोगानुष्ठानः साधुरेव ॥ है अथ अस्मिन्वार्षिकपर्वणि कल्पश्रवणवत् इमान्यपि पंच कार्याणि अवश्यं कार्याणि। तद्यथा ।
चैत्यपरिपाटी (१) समस्तसाधुवंदनं (२) सांवत्सरिकप्रतिक्रमणं (३) मिथःसाधर्मिकक्षामणं (४) अष्टमं तपश्च (५) एषां अपि कल्पश्रवणवद्वांछितदायकत्वं अवश्यकर्तव्यत्वं जिनानुज्ञातत्वं च । ज्ञेयम् । तत्र अष्टमं तप उपवासत्रयात्मकं महाफलकारणं रत्नत्रयवदान्यं शल्यत्रयोन्मूलनं जन्मत्र-12 |यपावनं कायवाङ्मनोदोषशोषकं विश्वत्रयाग्र्यपदप्रापकं निःश्रेयसपदाभिलाषुकैरवश्यं कर्तव्यम् नाग-5 केतुवत् । तथाहि