________________
तिष्ठामि," ततः प्रभुरवादीद्देवेंद्र ! “कदाप्येतन्न भूतं, न भवति, न भविष्यति च, यत्कस्यचिदेवेंद्रस्य | असुरेंद्रस्य वा साहाय्येन तीर्थकराः केवलज्ञानं उत्पादयन्ति किंतु खपराक्रमेणैव केवलज्ञानं उत्पाद-15 यंति,” ततः शक्रोऽपि मरणान्तोपसर्गवारणाय प्रभोर्मातृष्वज्ञेयं व्यंतरं वैयावृत्यकरं स्थापयित्वा त्रिदिवं जग्मिवान् ॥ | ततः प्रभुःप्रातः कोल्लाकसन्निवेशे बहुलब्राह्मणगृहे 'मया सपात्रो धर्मः प्रज्ञापनीयः' इति प्रथमपारणां गृहस्थपात्रे परमान्नेन चकार, तदा च चेलोत्क्षेपः (१) गंधोदकवृष्टिः (२) दन्दभिनादः (३) अहोदानमहोदानमित्युद्घोषणा (४) वसुधारावृष्टि (५) श्चेति पंच दिव्यानि प्रादुर्भूतानि, एषु वसुधाराखरूपं चेदं-"अद्धत्तेरस कोडी, उक्कोसा तत्थ होइ वसुहारा । अद्धत्तेरस लक्खा, जहन्नि-11 या होइ वसुहारा ॥१॥” ततः प्रभुर्विहरन्मोराकसन्निवेशे दूइज्जंततापसाश्रमे गतस्तत्र सिद्धार्थभूप-18 मित्रं कुलपतिः प्रभुं उपस्थितः, प्रभुणापि पूर्वाभ्यासान्मिलनाय बाहू प्रसारितो, तस्य प्रार्थनया च एकां रात्रि तत्र स्थित्वा नीरागचित्तोऽपि तस्याग्रहेण तत्र चतुर्मासावस्थानं अंगीकृत्य अन्यतो
कल्प. २५5