________________
कल्पसूत्र
सुबोधि०
॥१५६॥
किंच- प्रभुदीक्षामहोत्सवे यद्दैवैर्गोशीर्षचंदनादिभिः पुष्पैश्च पूजितोऽभूत् साधिकमासचतुष्कं यावतदवस्थेन तद्धेन आकृष्टा भ्रमरा आगत्य गाढं त्वचं दर्शति, युवानश्च गंधपुटीं याचंते, मौनवति च भगवति रुष्टास्ते दुष्टान् उपसर्गान् कुर्वति, स्त्रियोऽपि भगवंतं अद्भुतरूपं सुगंधशरीरं च निरीक्ष्य कामपरवशा अनुकूलान् उपसर्गान् कुर्वंति, भगवांस्तु मेरुरिव निष्प्रकंपः सर्वं सहमानो विहरति, तस्मिन्दिने च मुहूर्त्तावशेषे कुमारग्रामं प्राप्तस्तत्र रात्रौ कायोत्सर्गेण स्थितः ॥
इतश्च तत्र कश्चिद्गोपः सर्वं दिनं हले वृषान् वाहयित्वा संध्यायां तान्प्रभुपार्श्वे मुक्त्वा गोदोहाय गृहं गतः, वृषभास्तु वने चरितुं गताः, स चागत्य प्रभुं पृष्टवान्, देवार्य ! क्क मे वृषाः ? अजल्पति च प्रभौ अयं न वेत्तीति वने विलोकितुं लग्नः, वृषास्तु रात्रिशेषे स्वयमेव प्रभुपार्श्व आगताः, गोपोऽपि तत्रागतस्तान् दृष्ट्वा अहो ! जानतापि अनेन समग्रां रात्रिं अहं भ्रामित इति कोपात्सेल्हकमुत्पाट्य प्रहन्तुं धावितः, इतश्च शक्रस्तं वृत्तांतं अवधिना ज्ञात्वा गोपं शिक्षितवान्, अथ तत्र शक्रः प्रभुं विज्ञापयामास, 'प्रभो! तवोपसर्गा भूयांसः संति ! ततो द्वादशवर्षी यावत् वैयावृत्यनिमित्तं तवांतिके
षष्ठः
क्षणः
॥ ६ ॥
॥ १५६ ॥