________________
॥ अथ षष्ठः क्षणः ॥
ततश्चतुर्सानो भगवान्बंधुवर्ग आपृच्छय विहारार्थ प्रस्थितो,बंधुवर्गोऽपि दृष्टिविषयं यावत्तत्र स्थित्वा
"त्वया विना वीर! कथं व्रजामो ? गृहेऽधुना शून्यवनोपमाने । गोष्टीसुखं केन सहाचरामो ? भोक्ष्यामहे केन सहाथ बंधो ! ॥१॥ सर्वेषु कार्येषु च वीर वीरे-त्यामंत्रणादर्शनतस्तवार्य! प्रेमप्रकर्षादभजाम हर्ष, निराश्रयाश्चाथ कमाश्रयामः ॥२॥ अतिप्रियं बांधव ! दर्शनं ते, सुधांजनं भावि कदास्मदक्ष्णोः । मीरागचित्तोऽपि कदाचिदस्मान् , स्मरिष्यसि ? प्रौढगुणाभिराम ! ॥३॥" इत्यादि वदन् कष्टेन निवर्त्य साश्रुलोचनः खगृहं जगाम ॥
954GLOSARASAASAASA