________________
॥१४९॥
कल्पसूत्र- ४ ॥ ७ ॥ हस्तांबुजाभ्यां शुचिमौक्तिकौघै - रवाकिरन् काश्चन चंचलाक्ष्यः । काश्चिज्जगुमंजुलमंगलानि, सुबोधि० | प्रमोदपूर्णा ननृतुश्च काश्चित् ॥ ८ ॥" इत्थं नागरनागरीनिरीक्ष्यमाणविभवप्रकर्षस्य भगवतः पुरतः प्रथमतो रत्नमयान्यष्टौ मंगलानि क्रमेण प्रस्थितानि, तद्यथा - स्वस्तिकः (१) श्रीवत्सो ( २ ) नंद्यावर्त्तो (३) वर्द्धमानकं ( ४ ) भद्रासनं ( ५ ) कलशो ( ६ ) मत्स्ययुग्मं (७) दर्पणश्च ( ८ ) ततः क्रमेण पूर्णकलशभृंगारचामराणि, ततो महती वैजयंती, ततः छत्रं, ततो मणिस्वर्णमयं सपादपीठं सिंहासनं, ततोऽष्टशतं आरोहरहितानां वरकुंजरतुरगाणां, ततस्तावंतो घंटापताकाभिरामाः शस्त्रपूर्णरथाः, ततस्तावतो वरपुरुषाः, ततः क्रमेण हय ( १ ) गज ( २ ) रथ ( ३ ) पदात्य (४) नीकानि, ततो लघुपताकासहस्रपरिमंडितः सहस्रयोजनोच्चो महेंद्रध्वजः, ततः खड्गग्राहाः कुंतग्राहाः पीठफलकग्राहाः, ततो हासकारका नर्तकारकाः कांदर्पिका जय २ शब्द प्रयुंजानास्तदनंतरं बहव उग्रा भोगा राजन्याः | क्षत्रियास्तलवरा माडंबिकाः कौटुंबिकाः श्रेष्ठिनः सार्थवाहा देवा देव्यश्च स्वामिनः पुरतः प्रस्थिताः,
पंचमः
क्षणः
॥ ५ ॥
॥१४९॥