________________
विविधचेष्टाभिर्जनान् विस्मापयंति स्म, यतः-“तिन्निवि थीआं वल्लहां, कलिकज्जलसिंदूर।ए पुण अतिहिं
वल्लहां, दुद्धजमाईतूर ॥१॥" चेष्टाश्चेमाः-“खगल्लयोः काचनकज्जलांकं, कस्तूरिकाभिनयनांजनं च । है गले चलन्नूपुरमंघिपीठे, ग्रैवेयकं चारु चकार बाला ॥१॥ कटीतटे कापि बबंध हारं, कांची कणत्किकिणिकां च कंठे । गोशीर्षपंकेन ररंज पादा-वलक्तपंकेन वपुर्लिलेप ॥ २॥ अर्धस्नाता काचन । बाला, विगलत्सलिला विश्लथवाला । तत्र प्रथममुपेता त्रासं, व्यधित न केषां ज्ञाता हासम् ॥ ३ ॥ कापि परिच्युतविश्लथवसना, मूढा करधृतकेवलरसना। चित्रं तत्र गता न ललजे, सर्वजने जिनवी-2 क्षणसज्जे ॥ ४॥ संत्यज्य काचित्तरुणी रुदंतं, स्वपोतमोतुं च करे विधृत्य । निवेश्य कट्यां त्वरया : वजंती, हासावकाशं न चकार केषाम् ॥ ५॥ अहो ! महो रूपमहो! महौजः, सौभाग्यमेतत्कटरे । शरीरे । गृह्णामि दःखानि करस्य धात-यच्छिल्पमीदृग्वदति स्म काचित ॥६॥ काश्चिन्महेला विकस-18 कपोलाः, श्रीवीरवक्रेक्षणगाढलोलाः । विस्रस्य दूरं पतितानि तानि, नाऽज्ञासिषुः कांचनभूषणानि 81