________________
कल्पसूत्र
सुबोधि.
॥८॥
MAGASSANASSA
आलस्यं न विधेयम् सकलसामग्रीसहितस्यैव तस्य कल्पसूत्रश्रवणस्य वांछितफलप्रापकत्वात् । यथा बीज अपि वृष्टिवायुप्रभृतिसामग्रीसद्भावे एव फलनिष्पत्तौ समर्थ नान्यथा। एवं अयं कल्पोपि देवगुरुपूजाप्रभावनासाधर्मिकभक्तिप्रमुखसामग्रीसद्भावे एव यथोक्तफलहेतुः । अन्यथा-"इक्कोवि नमुक्कारो, जिणवरवसहस्स वद्धमाणस्स ।संसारसागराओ, तारेइ नरं व नारिं वा।” इति श्रुत्वा किंचित्प्रया-5
ससाध्ये कल्पश्रवणेपि आलस्यं भवेत् ! है। अथ पुरुषविश्वासे वचनविश्वास इति श्रीकल्पसूत्रस्य प्रणेता वक्तव्यः । स च चतुर्दशपूर्वविद्यु
गप्रधानश्रीभद्रबाहुखामी दशाश्रुतस्कंधस्य अष्टमाध्ययनतया प्रत्याख्यानप्रवादाभिधाननवमपूर्वात् है उद्धृत्य कल्पसूत्रं रचितवान् । तत्र पूर्वाणि च प्रथम एकेन हस्तिप्रमाणमषीपुंजेन लेख्यं । द्वितीयं । द्वाभ्यां २ । तृतीयं चतुर्भिः ४ । चतुर्थ अष्टाभिः ८। पंचमं षोडशभिः १६ । षष्ठं द्वात्रिंशता ३२ ।। सप्तमं चतुःषष्ट्या ६४ । अष्टमं अष्टाविंशत्यधिकशतेन १२८ । नवमं षट्पंचाशदधिकशतद्वयेन २५६ ।5। दशमं द्वादशाधिकैः पंचभिः शतैः ५१२ । एकादशं चतुर्विंशत्यधिकेन सहस्रेण १०२४ । द्वादशं