________________
PARA*ARA HARRAS
वर्द्धमानेनेति वदन् श्रीवीरं स्कंधे समारोप्य भगवद्भापनाय सप्ततालप्रमाणशरीरः संजातो, भगवानपि तत्स्वरूपं विज्ञाय वज्रकठिनया मुष्ट्या तत्पृष्ठं जघान, सोऽपि तत्प्रहारवेदनापीडितो मशक इव संकोचं प्राप, ततश्च शक्रवचनं सत्यं मन्यमानः प्रकटितखरूपः सर्वं पूर्व व्यतिकरं निवेद्य भूयो है भूयो निजं अपराध क्षमयित्वा स्वस्थानं जगाम स देवः । तदा च संतुष्टचित्तेन शक्रेण 'श्रीवीर' इति भगवतो नाम कृतम् । यदुक्तम्-“बालत्तणेवि सूरो, पयईए गुरुपरक्कमो भयवं । वीरुत्ति कयं णाम,II सक्केणं तुटूचित्तेणं ॥१॥” इत्यामलकीक्रीडा॥ __ अथ तं मातापितरौ, विज्ञौ ज्ञात्वाऽष्टवर्षमिति मोहात् । वरममितालंकारै-रुपनयतो लेखशालायाम् ॥ १॥ लग्नदिवसव्यवस्थिति-पुरःसरं परमहर्षसंपन्नौ । प्रौढोत्सवान् महार्हान् , वितेनतुर्घनधनव्ययतः ॥ २॥ तथाहि-गजतुरगसमूहैः स्फारकेयूरहारैः, कनकघटितमुद्राकुंडलैः कंकणाद्यैः। रुचिरतरदुकूलैः पंचवर्णैस्तदानी, स्वजनमुखनरेंद्राः सक्रियते स्म भक्त्या ॥३॥ तथा-पंडितयोग्यं नानावस्त्रालंकारनालिकेरादि । अथ लेखशालिकानां, दानार्थमनेकवस्तूनि ॥ ४॥ तथाहि-पूगीफलश्रृंगा
SOGEDISISISAARISES