________________
कल्पसूत्र
सुबोधि०
॥१४०॥
क्रीडानिमित्तं पुराद्दहिर्जगाम, तत्र च कुमारा वृक्षारोहणादिप्रकारेण क्रीडंतिस्म, अत्रांतरे सौधर्मेन्द्रः | सभायां श्रीवीरस्य धैर्यगुणं वर्णयन्नास्ते, यदुत पश्यत भो देवाः ! सांप्रतं मनुष्यलोके श्रीवर्द्धमानकुमारो बालोऽप्यबालपराक्रमः शक्रादिभिर्देवैरपि भापयितुं अशक्यः, कटरे बालस्यापि धैर्यम् ! तदाकर्ण्य च कश्चिन्मिथ्यादृग्देवश्चिंतयामास, अहो शक्रस्य प्रभुत्वाभिमानेन निरंकुशा निर्विचारा पुम्बिकापातेन नगराक्रमणमिवाऽश्रद्धेया च वचनचातुरी! यदिमं मनुष्यकीटपरमाणुं अपि इयंतं प्रकर्षं प्रापयति ! तदद्यैव तत्र गत्वा तं भापयित्वा शक्रवचनं वृथा करोमि, इति विचिंत्य मर्त्यलोकमागत्य शिंशपामुसलस्थूलेन लोलजिह्वायुगलेन भयंकर फूत्कारेण क्रूरतराकारेण प्रसरत्कोपेन पृथुफटाटोपेन दीप्रमणिना महाफणिना तं क्रीडातरुं आवेष्टितवान् तद्दर्शनाच्च पलायितेषु सर्वेषु बालेषु मनागव्यऽभीतमनाः श्रीवर्द्धमानकुमारः स्वयं तत्र गत्वा तं फणिनं करेण गृहीत्वा दूरं निक्षिप्तवान्, ततः पुनः संगतैः कुमारैः कंदुकक्रीडारसे प्रस्तुते सति स देवोऽपि कुमाररूपं विकुर्व्य तां क्रीडां कर्तुं प्रववृते तत्र चाऽयं पणः 'पराजितेन जितः स्वस्कंधमारोपणीय इति' क्षणाच्च पराजितं मया, जितं
पंचमः
क्षणः
॥५॥
॥१४०॥