SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ वीर्यं पराक्रमस्तेन संपन्नः, यतो भगवान् एवंविधस्ततो देवैः 'से' इति तस्य भगवतो नाम कृतं 'श्रमणो भगवान्महावीर' इति तृतीयम् (३) ॥ १०८ ॥ तदिदं नाम देवैः कथं कृतं ? इत्यत्र संप्रदायः - अथैवं पूर्वोक्तयुक्त्या सुरासुरनरेश्वरैः कृतजन्मोत्सवो भगवान् द्वितीयाशशीव मंदारांकुर इव वृद्धिं प्राप्नुवन् क्रमेण एवंविधो जातः - देवेहिं से णाम कयं समणे भगवं महावीरे ॥ १०८ ॥ [ त्रोटक वृत्ते ] - द्विजराजमुखो गजराजगतिः, अरुणोष्ठपुटः सितदंतततिः । शितिकेशभरोऽम्बुजमंजुकरः, सुरभिश्वसितः प्रभयोल्लसितः ॥ १ ॥ मतिमान् श्रुतवान् प्रथितावधियुक्, पृथुपूर्वभवस्मरणो गतरुकू । मतिकांतिधृतिप्रभृतिस्वगुणै - जगतोऽप्यऽधिको जगतीतिलकः ॥ २ ॥ स चैकदा कौतुकरहितोऽपि तेषां उपरोधात्समानवयोभिः कुमारैः सह क्रीडां कुर्वाणः आमलकी
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy