________________
कल्पसूत्र
सुबोधि०
॥१३९॥
भगवतो महावीरस्य त्रीणि नामधेयानि एवं आख्यायंते, तत्र मातापितृसत्कं ‘वर्धमान' इति प्रथम(१) पंचमः सहसमुइयाए सह समुदिता सहभाविनी तपःकरणादिशक्तिस्तया 'श्रमण' इति द्वितीयं नाम (२) क्षणः अयले भयभेरवाणं भयभैरवयोर्विषये अचलो निष्प्रकंपः, तत्र भयं अकस्माद्भयं विद्युदादिजातं, भैरवं तु सिंहादिकं, तथा परीसहोवसग्गाणं परीषहाः क्षुत्पिपासादयो द्वाविंशतिः (२२) उपसर्गाश्च
सहसमुइयाए समणे । अयले भयभेरवाणं परीसहोवसग्गाणं ___खंतिखमे पडिमाणं पालए धीमं अरतिरतिसहे दविए वीरियसंपन्ने दिव्यादयश्चत्वारः, सप्रभेदास्तु षोडश ( १६) तेषां खंतिखमे क्षात्या क्षमया क्षमते, नत्वऽसमर्थतया, यः सः क्षतिक्षमः पडिमाणं पालए प्रतिमानां भद्रादीनां, एकरात्रिक्यादीनां वा अभिग्रहविशेषाणां । पालकः धीमति धीमान् ज्ञानत्रयाभिरामत्वात् अरतिरतिसहे अरतिरती सहते, न तु तत्र हर्षविषादौ कुरुते इति भावः दविए द्रव्यं तत्तद्गुणानां भाजनं 'रागद्वेषरहित इति वृद्धाः' वीरियसंपन्ने
॥१३९॥