SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्रसुबोधि० क्षण: ॥१२८॥ सुराणां कोटिकोटिभि-विमानैर्वाहनैर्घनैः ॥ विस्तीर्णोऽपि नभोमार्गो-तिसंकीर्णोऽभवत्तदा ॥ ११ ॥ पंचमः मित्रं केऽपि परित्यज्य, दक्षत्वेनाग्रतो ययुः॥ प्रतीक्षख क्षणं भ्रात-मित्रेत्यपरोऽवदत् ॥ १२॥ । केचिद्वदंति भोदेवाः ! संकीर्णाः पर्ववासराः ॥ भवत्येवंविधा नूनं, तस्मान्मौनं विधत्त भोः !॥ १३ ॥18 नभस्यागच्छतां तेषां, शीर्षे चंद्रकरैः स्थितैः ॥ शोभंते निर्जरास्तत्र, सजरा इव केवलम् ॥ १४ ॥ मस्तके घटिकाकाराः, कंठे ग्रैवेयकोपमाः ॥ खेदबिंदुसमा देहे, सुराणां तारका बभुः ॥ १५ ॥ है नंदीश्वरे विमानानि, संक्षिप्यागात्सुराधिपः ॥ जिनेंद्रं च जिनांबां च, त्रिः प्रादक्षिणयत्ततः ॥ १६ ॥ वंदित्वा च नमस्थित्वे-त्येवं देवेश्वरोऽवदत् ॥ नमोऽस्तु ते रत्नकुक्षि-धारिके ! विश्वदीपिके ! ॥ १७॥ अहं शक्रोऽस्मि देवेंद्रः, कल्पादाद्यादिहाऽगमम् ॥ प्रभोरन्तिमदेवस्य, करिष्ये जननोत्सवम् ॥ १८॥ भेतव्यं देवि ! तन्नैवे-त्युक्त्वाऽवस्वापिनी ददौ ॥ कृत्वा जिनप्रतिबिंब, जिनांबासन्निधौ न्यधात् ॥१९॥ भगवंतं तीर्थकरं, गृहीत्वा करसंपुटे ॥ विचक्रे पंचधारूपं, सर्वश्रेयोऽर्थिकः स्वयम् ॥ २० ॥ ॥१२८॥ है एको गृहीततीर्थेशः, पार्श्वे द्वावात्तचामरौ ॥ एको गृहीतातपत्र, एको वज्रधरः पुरः ॥ २१ ॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy