________________
XUSUNA LARRICANSSA 4****
| "पालकविमाने च इंद्रसिंहासनस्य अग्रे अग्रमहिषीणां अष्टौ भद्रासनानि, वामतश्चतुरशीतिसहस्रसामानिकसुराणां तावंति भद्रासनानि, दक्षिणतो द्वादशसहस्राभ्यंतरपार्षदानां तावंति भद्रा-15
सनानि, चतुर्दशसहस्रमध्यमपार्षदानां तावत्येव भद्रासनानि, एवं षोडशसहस्रबाह्यपार्षदानामपि4 है षोडशसहस्रभद्रासनानि, पृष्ठतः सप्तानीकाधिपतीनां सप्त भद्रासनानि, चतसृषु दिक्षु प्रत्येकं है
चतुरशीतिसहस्रात्मरक्षकदेवानां चतुरशीतिसहस्रभद्रासनानि।” तथा| अन्यैरपि घनैर्देवै-वृतः सिंहासनस्थितः ॥ गीयमानगुणोऽचाली-दपरेऽपि सुरास्ततः॥५॥ ६ देवेंद्रशासनात्केचित् , केचिन्मित्रानुवर्तनात् ॥ पत्नीभिः प्रेरिताः केचित् , केचिदात्मीयभावतः॥६॥
केऽपि कौतुकतः केऽपि, विस्मयात्केऽपि भक्तितः ॥ चेलुरेवं सुराः सर्वे, विविधैर्वाहनैर्युताः ॥७॥ विविधैस्तूर्यनिर्घोषै-घंटानां क्वणितेरपि ॥ कोलाहलेन देवानां, शब्दाद्वैतं तदाऽजनि ॥ ८॥ सिंहस्थो वक्ति हस्तिस्थं, दूरे खीयं गजं कुरु ॥ हनिष्यत्यन्यथा नूनं, दुर्द्धरो मम केसरी ॥९॥ वाजिस्थं कासरारूढो, गरुडस्थो हि सर्पगम् ॥ छागस्थं चित्रकस्थोऽथ, वदत्येवं तदादरात् ॥ १०॥