SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र बद्धा तद् दूर्वया जन्म-गेहाद्रभागृहत्रयम् ॥ ताः पूर्वस्यां दक्षिणस्या-मुत्तरस्यां व्यधुस्ततः ॥ १५ ॥ याम्यरंभागृहे नीत्वाऽभ्यंगं तेनुस्तु तास्तयोः ॥ स्नानचर्चाशुकालंका-रादि पूर्वगृहे ततः॥ १६ ॥ सुबोधि० उत्तरेऽरणिकाष्टाभ्या-मुत्पाद्याऽग्निं सुचंदनैः ॥ होमं कृत्वा बबंधुस्ता, रक्षापोहलिका द्वयोः ॥ १७ ॥ ॥१२७॥ पर्वतायुर्भवेत्युक्त्वा, स्फालयंत्योऽश्मगोलकौ ॥ जन्मस्थाने च तौ नीत्वा, स्वस्खदिक्षु स्थिता जगुः॥१८॥ एताश्च]सामानिकानां प्रत्येकं, चत्वारिंशच्छतैर्युताः ॥ महत्तराभिः प्रत्येकं, तथा चतसृभिर्युताः ॥१९॥ अंगरक्षैः षोडशभिः, सहस्रः सप्तभिस्तथा ॥ कटकैस्तदधीशैश्च, सुरैश्चान्यैर्महर्द्धिभिः ॥ २० ॥ A आभियोगिकदेवकृतैर्योजनप्रमाणैर्विमानैः अत्रायांति, इति दिकुमारिकामहोत्सवः ॥ ततः सिंहासनं शाकं, चचालाऽचलनिश्चलम् ॥ प्रयुज्याथावधि ज्ञात्वा, जन्मांतिमजिनेशितुः ॥ १॥ वज्येकयोजनां घंटां, सुघोषां नैगमेषिणा ॥ अवादयत्ततो घंटा, रेणुः सर्वविमानगाः॥२॥ 1 शक्रादेशं ततः सोच्चैः, सुरेभ्योऽज्ञापयत्वयम् ॥ तेन प्रमुदिता देवाश्चलनोपक्रमं व्यधुः ॥३॥ पालकाख्यामरकृतं, लक्षयोजनसंमितम् ॥ विमानं पालकं नामा-ऽध्यारोहत्रिदशेश्वरः ॥ ४॥ PROCESSUAARASS ॥१२७॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy