________________
94XX***SOCIAIS
एवं चिंताक्रांता, ध्यायंती म्लानकमलसमवदना ॥ दृष्टा शिष्टेन सखी-जनेन तत्कारणं पृष्टा ॥ २१ ॥
प्रोवाच साश्रुलोचन-रचना निःश्वासकलितवचनेन। किं मंदभागधेया, वदामि?यजीवितं मेऽगात् ॥२२॥ है सख्यो जगुरथ हेसखि,शांतममंगलमशेषमन्यदिह॥गर्भस्य तेस्ति कुशलं, न वेति वद कोविदे सत्यम् ॥२३॥
सा प्रोचे गर्भस्य च, कुशले किमकुशलमस्ति मे सख्यः!॥इत्यायुक्त्वा मूर्छा-मापन्ना पतति भूपीठे ॥२४॥ शीतलवातप्रभृतिभि-रुपचारैर्बहुतरैः सखीभिःसा॥संप्रापितचैतन्यो-त्तिष्ठति विलपति च पुनरेवम॥२५॥ गरुए अणोरपारे, रयणनिहाणे असायरे पत्तो॥छिद्दघडो न भरिजइ, ता किं दोसो जलनिहिस्स? ॥२६॥ पत्ते वसंतमासे, रिद्धिं पावंति सयलवणराई ॥ न करीरे पत्तं, ता किं दोसो वसंतस्स ? ॥ २७ ॥ उत्तुंगो सरलतरू, बहुफलभारेण नमिअसवंगो॥ कुजो फलं न पावइ, ता किं दोसो तरुवरस्स? ॥२८॥
समीहितं यन्न लभामहे वयं, प्रभो! न दोषस्तव कर्मणो मम ॥
दिवाप्युलूको यदि नावलोकते, तदा स दोषः कथमंशुमालिनः ? ॥ २९॥ अथ मम मरणं शरणं, किं करणं विफलजीवितव्येन।तत्श्रुत्वेति व्यलपत् ,सख्यादिःसकलपरिवारः॥३०॥