________________
कल्पतरुर्मरुभूमौ, न प्रादुर्भवति भूम्यभाग्यवशात् ॥ नहि निष्पुण्यपिपासितनृणां पीयूषसामग्री ॥३॥ ६ हा धिग् ! धिग् ! दैवं प्रति, किं चक्रे तेन सततवक्रेण ॥ यन्मे मनोरथतरु-र्मूलादुन्मूलितोऽनेन ॥४॥
आत्तं दत्त्वाऽपि च मे, लोचनयुगलं कलंकविकलमलम् ॥ दत्त्वा पुनरुदालित-मधमेनानेन निधिरत्नम् ॥५॥ आरोप्य मेरुशिखरं, प्रपातिता पापिनाऽमुनाऽहमियम् ॥ परिवेष्याप्याकृष्टं, भोज्यं भाजनमलज्जेन ॥६॥ यद्वा मयापराद्धं, भवांतरेऽस्मिन् भवेऽपि किं ? धातः ! यस्मादेवं कुर्व-न्नुचिताऽनुचितं न चिंतयसि ?॥७॥ अथ किं कुर्वे ? क च वा,गच्छामि ? वदामि कस्य वा पुरतः? ॥दुर्दैवेन च दग्धा,जग्धा मुग्धाऽधमेन पुनः॥८॥ किं राज्येनाप्यमुना?, किं वा कृत्रिमसुखैर्विषयजन्यैः॥ किंवा दुकूलशय्या-शयनोद्भवशर्महर्येण ? ॥९॥
गजवृषभादिखप्नैः, सूचितमुचितं शुचिं त्रिजगदय॑म् ।
त्रिभुवनजनासपत्नं, विना जनानंदि सुतरत्नम् ॥ १० ॥ युग्मम् । धिक् संसारमसारं, धिक् दुःखव्याप्तविषयसुखलेशान् ॥मधुलिप्तखड्गधारालेहनतुलितानहो लुलितान् ११ यद्वा मयका किंचित् , तथाविधं दुष्कृतं कृतं कर्म ॥ पूर्वभवे यदृषिभिः, प्रोक्तमिदं धर्मशास्त्रेषु ॥ १२ ॥