________________
कल्पसूत्र
सुबोध०
॥११५॥
इदानीं नैजते न कंपते इतिकहुत्ति इति कृत्वा इति हेतोः ओहयमणसंकप्पा उपहतः कलुषीभूतो मनः संकल्पो यस्याः सा तथा चिंतासोगसागरं पविट्ठा चिंता गर्भहरणादिविकल्पसंभवा अर्त्तिस्तया यः शोकः स एव सागरः समुद्रस्तत्र प्रविष्टा बुडिता, अत एव करतले पर्यस्तं स्थापितं मुखं यया सा तथा, आर्तध्यानोपगता, भूमिगतदृष्टिका ध्यायति—
गब्भे ? एस मे गब्भे पुत्रिं एयइ, इयाणिं नो एयइत्तिकट्टु ओहयमणसंकप्पा चिंतासोगसागरं पविट्ठा करयलपल्हत्थमुही अट्ठज्झाणोवगया भूमीगयदीट्ठिया ज्झियायइ । अथ सा त्रिशला तदानीं यद्ध्यायतिस्म तल्लिख्यते—
सत्यमिदं यदि भविता, मदीयगर्भस्य कथमपीह तदा॥निष्पुण्यकजीवाना-मवधिरिति ख्यातिमत्यभवम् १ यद्वा चिंतारत्नं, नहि नंदति भाग्यहीनजनसदने ॥ नापि च रत्ननिधानं, दरिद्रगृहसंगतीभवति ॥ २ ॥
चतुर्थः
क्षणः
॥ ४ ॥
॥११५॥