________________
66
'एकांते किमु मोहराजविजये मंत्रं प्रकुर्वन्निव, ध्यानं किंचिदगोचरं विरचयत्येकः परब्रह्मणि । किं कल्याणरसं प्रसाधयति वा देवो विलुप्यात्मकं, रूपं कामविनिग्रहाय जननीकुक्षावसौ वः श्रिये १* ९१ तएणं तीसे ततो भगवतो निश्चलावस्थानानंतरं तस्यास्त्रिशलायाः क्षत्रियाण्या अयमेतद्रूपोऽध्यवसायः तणं तीसे तिसलाए खत्तियाणीए अयमेयारूवे जाव संकप्पे समुप्पजित्था, हडे मे से गब्भे ? मडे मे से गब्भे ? चुए मे से गब्भे ? गलिए मे से
समुत्पन्नः,
कोऽसौ ? इत्याह हडे मे से गब्भे स मे मदीयो गर्भः किं केनचिद्देवादिना हृतः ? अथवा स | मे गर्भः मडेत्ति मृतः ? अथवा स मे गर्भः किं चुपत्ति च्युतो गर्भस्वभावात्परिभ्रष्टः ? अथवा स मे गर्भः किं गलिएत्ति गलितः द्रवीभूय क्षरितः ? यस्मात्कारणात् एष मे गर्भः पूर्वं एजते पूर्वं कंपमानोऽभूत् * पुस्तकान्तरे तु " किं कल्याणरसं प्रसाधयति वा मारापकाराय वा, योऽईनिश्चलतां बभाज जननीकुक्षावसौ वः श्रिये." इत्येवमुत्तरार्द्ध दृश्यते ॥