________________
कल्पसूत्र
प्रथम:
क्षण:
भागाः ! तदानीं भवतां नटो निषिद्धो नटे निषिद्धे च नटी सुतरां निषिद्वैव ततस्तैर्विज्ञप्तं स्वामिन् !! सुबोधि० | इदमस्माभिर्न ज्ञातं अथैवं न करिष्यामः । अत्र च जडत्वान्नटे निषिद्धे नटी निषिद्धैवेति तैर्न ज्ञातं
ऋजुत्वाच्च सरलं उत्तरं दत्तं इति प्रथमः ॥ ___ अत्र द्वितीयोऽपि दृष्टांतो यथा-कोपि कोंकणदेशीयो वणिक् वृद्धत्वे प्रव्रजितः स चैकदा ऐर्यापथि-1 कीकायोत्सर्गे चिरं स्थितो गुरुभिः पृष्टः एतावदीर्घकायोत्सर्गे किं चिंतितं ? स प्रत्युवाच स्वामिन् ! जीवदया चिंतिता कथमिति ? पुनर्गुरुभिः पृष्ट आह पूर्व गृहस्थावस्थायां क्षेत्रेषु वृक्षनिषूदनपूर्वक उत्तानि धान्यानि बहून्यभूवन् इदानीं मम पुत्रास्तु निश्चिता यदि वृक्षनिषूदनं न करिष्यति तदा धान्याभवनेन वराकाः कथं भविष्यंति इति ऋजुत्वात्स्वाभिप्राये यथास्थिते निवेदिते गुरुभिः कथितं महाभाग ! दुर्ध्यातं भवता अयुक्तमेतद्यतीनां इत्युक्ते च मिथ्यादुष्कृतं ददौ ॥ | तथा वीरजिनयतीनां वक्रजडत्वेपि दृष्टांतद्वयं । तत्र-केचिद्वीरतीर्थसाधवो नटं नृत्यंतं विलोक्य | गुरुसमीपमागता गुरुभिः पृष्टा निषिद्धाश्च नटावलोकनं प्रति । पुनरन्यदा नटी नृत्यंती विलोक्य
॥५॥